संस्कृत-शब्दकोशः

वाहिनीपति वाहु

वाहीक

वाचस्पत्यम्

वाहीक ||‍ पु० वह—ईक । १ जर्त्तिके जातिभेदे (जाट) । २ देशभेदे च हेमच० । ||‍“वाहीकदेश मद्रांश्च कुत्सयन् वाक्यमव्रवीत् । प- ञ्चानां सिन्धुषष्टानां नदोनां येऽन्तराश्रिताः । तान् धर्मवाह्यानशुचीन् वाहीकान् परिवर्जयेत् । शाकलं नाम नगरमापगा नाम निम्रगा । जर्त्तिका नाम वा- हीकास्तेषां वृत्तं सुनिन्दितम्” भा० कर्ण० २०० अ० ।


शब्दकल्पद्रुमः

वाहीकः || पुं, देशभेदः । तत्पर्य्यायः । अष्टक्वः २ । इति हेमचन्द्रः ॥ जर्त्तिकजातिः । जाट् इति भाषा ॥ यथा, —
“तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः । वाहीकदेशं मद्रांश्च कुत्सयन् वाक्यमब्रवीत् ॥ पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः । तान् धर्म्मवाह्यानशुचीन् वाहीकान् परि- वर्ज्जयेत् ॥ शाकलं नाम नगरमापगानामनिम्नगा । जर्त्तिका नाम वाहीकास्तेषां वृत्तं सुनिन्दि- तम् ॥” इति महाभारते कर्णपर्व्वणि २०० अध्यायः ॥



Correction: