शब्दकल्पद्रुमः
वा(बा)हुः || पुं, (बाधते शत्रूनिति । बाधृ लोडने + “अर्त्तिदृशिकमीति ।” उणा० । १ । २८ । इति कुः हकारादेशश्च ।)
कक्षावध्यङ्गुल्यग्र- पर्य्यन्तावयवः । यथा । भुजवाहुः प्रवेष्टो द्योरि- त्यमरः ॥ वहत्यनेन वाहुः नाम्नीति उण् । घञि वाहोऽदन्तः । वाहोऽश्वभुजयोः पुमान् । इति दामोदरः । स्त्रियां वाहा च । वाहो वाहा भुजा वाहुर्दोषो दोषा च दोः पुमान् । इति कोषान्तरम् ॥ इति तट्टीकायां भरतः ॥ कूर्प- रस्योर्द्ध्वभागो वाहुस्तस्याधोभागः प्रवाहुः । यथा, —
“मुखं वाहू प्रवाहू च मनः सर्व्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥” इति विष्णुपुराणे ५ अंशे ५ अध्यायः ॥ वाहुप्रवाहू च कूर्परस्योर्द्ध्वाधोभागौ । इति तट्टीका ॥ अन्यत् पवर्गीयवकारादिबाहुशब्दे द्रष्टव्यम् ॥ * ॥
अस्य शुभाशुभलक्षणं यथा, —
“निर्मांसौ चैब भग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ । आजानुलम्बिनौ वाहू वृत्तौ पीनौ नृपेश्वरे ॥ निःस्वानां रोमशौ ह्नस्वौ श्रेष्ठौ करिकरप्रभौ । हस्ताङ्गुलय एव स्युरायुर्दा ललिताः शुभाः ॥ मेधाविनाञ्च सूक्ष्माः स्युर्भृत्यानां चिपिटाः स्मृताः । स्थूलाङ्गुलीभिर्निःस्वाः स्युर्नताःस्युर्वहिरन्तदाः ॥ कपितुल्यकरा निःस्वा व्याघ्रतुल्यकरैर्धनम् । मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः ॥ नृपा हीनैः करच्छेदः सशब्दैर्धनवर्ज्जिताः । पितृवित्तविहीनाश्च निम्नात् करतलान्नराः ॥ संवृत्तैश्चैव निम्नैश्च धनिनः परिकीर्त्तिताः । प्रोक्ता नरकदातारो विषमैर्विषमा नराः ॥ करैः करतलैश्चैव लाक्षाभैरीश्वरास्तलैः । परदाररताः पीतै रूक्षैर्निःस्वा नरा मताः ॥ तुषतुल्यनखाः क्लीवाः कुटिलैः स्फुटितैर्नराः । निःस्वाश्चक्रनखैस्तद्वद्बिवर्णैः परतर्ककाः ॥ ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा । अङ्गुष्ठमूलजैः प्रेष्यः स्याद्दीर्घाङ्गुलिपर्व्वकः ॥ दीर्घायुः सुभगश्चैव निर्धनो विरलाङ्गुलिः । घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै ॥ नृपतेः करतलगा मणिबन्धे समुत्थिताः । युगमीनाङ्कितकरो भवेत् सत्रप्रदो नरः ॥ वज्राकाराश्च धनिनां मत्स्यपुच्छनिभा बुधे । शङ्खातपत्रशिविकागजपद्मोपमा नृपे ॥ कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे । दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे ॥ चक्रासितोमरधनुःकुन्ताभा नृपतेः करे । उदूखलाभा यज्ञाढ्ये वेदीभाश्चाग्निहोत्रिणि ॥ वापीदेशकुलाभाश्च त्रिकोणाभाश्च धार्म्मिके । अङ्गुष्ठमूलगा रेखाः पुत्त्राः सूक्ष्माश्च दारिकाः ॥ प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी । शतायुषञ्च कुरुते छिन्नया तरुतो भयम् । निस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः ॥” इति गारुडे ६६ अध्यायः ॥