शब्दकल्पद्रुमः
वा(बा)हुमूलं || क्ली (वाह्वोर्मूलम् ।)
भुजद्वयस्य आद्यभागः । काँक् इति वगल् इति च भाषा । तत्पर्य्यायः । कक्षः २ । इत्यमरः ॥ भुजकोटरः ३ दोर्मूलम् ४ खण्डिकः ५ कक्षा ६ । इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ३ । १२४ “कापि कुन्तलसं व्यानसंयमव्यपदेशतः । बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥”)