शब्दकल्पद्रुमः
वा(बा)हुलः || पुं, कार्त्तिकमासः । इत्यमरः ॥ अथ कार्त्तिकमाहात्म्यम् । नारद उवाच । “कार्त्तिकस्य तु माहात्म्यं मासस्य वक्तुमर्हसि । पूर्ब्बं कार्त्तिकमाहात्म्यं यथावत् वक्तुमर्हसि ॥ ब्रह्मोवाच । साधु पृष्टं त्वया पुत्त्र लोकोद्धारणहेतवे । कथयामि न सन्देहस्त्वत्समो नास्ति वैष्णवः ॥ एकतः सर्व्वतीर्यानि सर्व्वे यज्ञाः सदक्षिणाः । कार्त्तिकस्य च मासस्य कोट्यंशं नापि बिभ्रति ॥ एकतः पुष्करे वासः कुरुक्षेत्रे हिमाचले । एकतः कार्त्तिको वत्स ! सर्व्वपुण्याधिको मतः ॥ स्वर्णानि मेरुतुल्यानि सर्व्वदानानि चैकतः । एकतः कार्त्तिको वत्स ! सर्व्वदा केशवप्रियः ॥ कृत्वा कोटिसहस्राणि पापानि सुबहून्यपि । निमेषार्द्धेन सर्व्वाणि विलयं यान्ति कार्त्तिके ॥ यत्किञ्चित् कुरुते पुण्यं विष्णुमुद्दिश्य कार्त्तिके । तदक्षयं भवेत् सर्व्वं सत्योक्तं तव नारद ! ॥ तस्य क्षयं न पश्यामि सत्यमुक्तं तवानघ । सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ॥ तथात्मानं समादध्यात् यथा न स्यादितः पुनः । दुष्प्राप्यं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन्न यः ॥ धर्म्मं धर्म्मभृतां श्रेष्ठ स मातृपितृघातकः । कार्त्तिकं खलु वै मासं सर्व्वमासेषु चोत्तमम् ॥ पुण्यानां परमं पुण्यं पावनानाञ्च पावनम् । अस्मिन् मासे त्रयस्त्रिंशद्देवाः सन्निहिता ऋषे ॥ अत्र स्नानानि दानानि भोजनानि व्रतानि च । तिलधेनुहिरण्यानां रजतं भूमिवाससाम् ॥ गोप्रदानानि कुर्व्वन्ति सर्व्वभावेन नारद ! । ब्राह्मणानाञ्च ये कन्यां दास्यन्ति विधिवन्नराः ॥ दानानां फलमेतेषां प्राप्नुयुस्ते विधानतः । तानि दानानि गृह्णन्ति दत्तानि विधिवत् सुराः ॥ यत्किञ्चित् कार्त्तिके दत्तं तपश्चैव तथा कृतम् । तदक्षयफलं प्रोक्तं विष्णुना लोककर्त्तृणा ॥ वृषाणां मोक्षणं चैव कार्त्तिके मासि यैः कृतम् । अश्वपेधादिकं पुण्यं तैश्च प्राप्तं न संशयः ॥ तस्माद्यत्नेन विप्रेन्द्र कार्त्तिके मासि दीयते । यत्किञ्चित् कार्त्तिके दत्तं विष्णुमुद्दिश्य मानवैः ॥ हुतं दत्तञ्च विप्रेन्द्र तपश्चैव तथा कृतम् । तदक्षयं लभन्ते ते शस्यदानं विशेषतः ॥ यथा नदीनां विप्रेन्द्र शैलानाञ्चैव नारद । उदधीनाञ्च विप्रर्षे क्षयो नैवोपपद्यते ॥ तद्वत् कार्त्तिकमासे तु यत्किञ्चिद्दीयते मुने । न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा ॥ तस्मात् सर्व्वप्रयत्नेन कर्म्मणा मनसा गिरा । पापं समाचरेन्नैव कार्त्तिके विष्णुतत्परः ॥ ज्ञानाद्वा यदि वाज्ञानाद्दुष्कृतं येन यत्कृतम् । तत्तस्य नश्यति क्षिप्रं वायुना पांशवो यथा ॥ संप्राप्तं कार्त्तिकं दृष्ट्वा परान्नं यस्तु वर्ज्जयेत् । दिने दिने च कृच्छ्रस्य फलं प्राप्नोत्यसंशयम् ॥ प्रवृत्तानान्तु भक्षाणां कार्त्तिके नियमे कृते । अवश्यं विष्णुरूपत्वं प्राप्यते मुक्तिदं शुभम् ॥ न कार्त्तिकसमो मासो न कृतेन समं युगम् । न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम् ॥ न चान्नेन समं दानं न सुखं भार्य्यया समम् । न कृषेस्तु समं वित्तं न लाभः सुरभीसमः ॥ न तपोऽनशनैस्तुल्यं न दमात् परमो जयः । न च धर्म्मो दयातुल्यो न ज्योतिश्चक्षुषा समम् ॥ न तृप्ती रसनातुल्या न प्रीतिस्तु सुतं विना । न कार्त्तिकसमो मासो वैष्णवानां प्रियः सदा ॥ अव्रतेन क्षपेद्यस्तु मासं दामोदरप्रियम् । तिर्य्यग्योनिमवाप्नोति सर्व्वधर्म्मबहिष्कृतः ॥ दुर्ल्लभं वैष्णवं ज्ञानं दुर्ल्लभा वैष्णवी कथा । दुर्ल्लभा वैष्णवी दीक्षा दुर्ल्लभो जागरस्तथा ॥ दुर्ल्लभं कपिलादानं दुर्ल्लभं जाह्नवीजलम् । दुर्ल्लभो वैष्णवो विप्रो दुर्ल्लभं नीलमोक्षणम् ॥ दुर्ल्लभं पुष्करे दानं दुर्ल्लभाः कार्त्तिके तिलाः । दुर्ल्लभो जागरो विष्णोः पक्षयोरुभयोरपि ॥ दुर्ल्लभा कार्त्तिके विप्र द्बादशी हरिबोधिनी । दुर्ल्लभा मालतीपूजा दुर्ल्लभा तुलसी मुने ॥ दुर्ल्लभं कार्त्तिके स्नानं दुर्ल्लभं साधुवन्दनम् । शालग्रामशिलापूजा दुर्ल्लभा मुनिपुङ्गव ॥ समुद्रगा नदी यत्र दुर्ल्लभा स्नानशालिनाम् । कुलशीलवती कन्या दुर्ल्लभा दम्पती नृणाम् ॥ दुर्ल्लभा जननी लोके पिता चैव विशेषतः । दुर्ल्लभं साधुसम्मानं दुर्ल्लभो धार्म्मिकः सुतः ॥ दुर्ल्लभैकादशी लोके दशमीसङ्गवर्ज्जिता । पक्षद्वयं व्रतं वत्म अयने दक्षिणोत्तरे ॥ दुर्ल्लभं वैष्णवे दानं माघस्नानं नदीजले । ज्यैष्ठाषाढे तु पानीयमिन्धनं पौषमाघयोः ॥ ब्राह्मणं दुर्ल्लभं विप्र दुर्ल्लभं तीर्थसेवनम् ॥ न्यायेनोपार्ज्जितं वित्तं दुर्ल्लभं कुलवर्द्धनम् । दुर्ल्लभं वत्स द्रव्याणां पात्रे यत् प्रतिपादितम् ॥ पात्राणामपि तत्पात्रं सदाचारक्रियान्वितम् । संप्राप्य कार्त्तिकं मासं विमुखा ये जनार्द्दने । तेषां यमपुरे वासः पितृभिः सह नारद ! ॥” इति पाद्मोत्तरखण्डे कार्त्तिकमाहात्म्ये ११४ अः ॥ ब्रह्मोवाच । “कार्त्तिकस्य तु माहात्म्यं पुनरेव शृणुष्व मे । यत् श्रुत्वा मुनिशार्द्दूल ! सर्व्वान् कामानवा- प्स्यसि ॥ व्रतानामिह सर्व्वेषामेकजन्मानुगं फलम् । कर्त्तुर्विष्णुव्रतस्योक्तं शतजन्मानुगं फलम् ॥ आश्विनस्य सिते पक्षे एकादश्यां द्बिजोत्तम ! । वैष्णवैर्वैष्णवं धर्म्मं प्रारम्भोऽस्य विधीयते ॥ यावत् कार्त्तिकशुक्लस्य पौर्णमासी तिथिर्भवेत् । तावदस्य व्रतस्योक्तं सम्यगाचरणं बुधैः ॥ अन्यथा तु कृतं विप्र व्रतमेतत् सुदुर्ल्लभम् । कार्य्यं सद्भिः प्रयत्नेन कार्त्तिके तुं विशेषतः ॥ त्रिंशद्दिनानि पुण्यानि विप्रप्रीतिकराणि वै । कार्त्तिकस्य व्रतं विप्र ! श्रीविष्णुप्रीतिकारणम् ॥ तदर्द्धं भीष्मस्य व्रतं मुने तुष्टिकरं परम् । पुण्यं पञ्चदिनं प्रोक्तं दत्तं तस्मै च विष्णुना ॥ नरो वा यदि वा नारी कुरुते वैष्णवं व्रतम् । दिने दिनेऽसङ्ख्यफलं भवेत्तस्यैव कार्त्तिके ॥ अतस्त्वं विधिवत् पुत्त्र ! वैष्णवं व्रतमुत्तमम् । श्रीदामोदरतुष्ट्यर्थं प्रकुरुष्व समाहितः ॥ ऊर्ज्जे मासि मुनिश्रेष्ठ प्रातःकाले तथामले । गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ॥” इति पाद्मे उत्तरखण्डे ११५ अध्यायः ॥ * ॥
ब्रह्मोवाच । “पुराणश्रवणं यत्र कुर्व्वन्ति द्विजसत्तम । तेषां करस्थिता मुक्तिर्विद्यते नात्र संशयः ॥ कार्त्तिके मासि यो भक्त्या कुर्य्याद्ब्राह्मणभोज- नम् । प्रत्यहं विष्णुतृप्त्यर्थं स याति भवनं हरेः ॥ कार्त्तिके मासि यः कुर्य्यात् तिलतैलेन दीपकम् । अहोरात्रान् मुनिश्रेष्ठ स याति परमं पदम् ॥ कार्त्तिके मासि यो दद्यात् पादत्राणं द्विजन्मने । दद्याद्बस्त्रान्वितं वत्स यमं नैव स पश्यति ॥ यज्ञोपवीतं यो दद्यात् भूमिं वै ब्राह्मणाय तु । स याति ब्रह्मसदनं पुनरावृत्तिवर्जितम् ॥ ताम्बूलञ्चैव यो दद्यात् सपूगं विधिवद्द्विज । गन्धर्व्वलोकमाप्नोति भुक्त्वा भोगान् मनोरमान् ॥ श्रीचन्दनञ्च यो दद्यात् देवपूजार्थमादरात् । विप्राय वेदविदुषे पुरन्दरपुरं व्रजेत् ॥ नारिकेलफलं वत्स सवस्त्रञ्च सदक्षिणम् । यो दद्याद्वेदविदुषे स शश्वत् पुत्त्रवान् भवेत् ॥” इति पाद्मे उत्तरखण्डे ११६ अध्यायः ॥