संस्कृत-शब्दकोशः

वाह्लीक विक

वि

वाचस्पत्यम्

वि ||‍ अव्य० वा—कि । १ नियागे, २ विशेषे, ३ निश्चये, ४ असहने, ५ निग्रहे, ६ हेतौ, ७ अव्याप्तौ, ८ ईषदर्थ, ९ परिभवे, १० अवलम्बने, ११ ज्ञाने मेदि० १२ विशेषेण गतौ, १३ आ- लस्ये, १४ पालने च शब्दच० । १५ विहगे पु० अमरः । गणरत्ने अस्यार्थभेदानुक्त्वा क्रमेणोदाहृतं यथा “वि नानावियोगातिशयभृशमोहेशवाङ्मृधपैशुन्यास्वरणभू- षेषदर्थाभिमुख्यानवस्थाऽऽमुख्यस्थैर्य्यदर्शनेषु” । विचित्रं १ वियुक्तः २ विकीर्णः ३ वितटा नदी ४ विमनस्कः ५ । विमुः ६ विवदति ७ विगायति ८ विस्मृतः ९ विभूषितः १० विलोपितः ११ विमुखः १२ विभ्रान्तः १३ विवृष्टः १४ विश्रान्तः विलोकयति १५” ।


शब्दकल्पद्रुमः

विः || पुं, स्त्री, (वाति गच्छतीति । वा + “वाते- र्डिच्च ।” उणा० ४ । १३३ । इति इण् । स च डित् ।)
पक्षी । इत्यमरः ॥ (यथा, साहित्य- दर्पणे १० परिच्छेदे । “के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषा- श्रयः । किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः ॥”)


शब्दकल्पद्रुमः

वि || व्य, निग्रहः । नियोगः । पदपूरणम् । निश्चयः । असहनम् । हेतुः । अव्याप्तिः । विनियोगः । ईष- दर्थः । परिभवः । शुद्धम् । अवलम्बनम् । विज्ञा- नम् । इति मेदिनी । वे, ७६ ॥ विशेषः । गतिः । आलम्भः । पालनम् । इति शब्दरत्नावली ॥ उप- सर्गविशेषः । अस्यार्थाः । वि विशेषवैरूप्यनञर्थ- गतिदानेषु । इति मुग्धबोधटीकायां दुर्गदासः ॥



Correction: