संस्कृत-शब्दकोशः

विकण्टक विकम्पित

विकत्थन

वाचस्पत्यम्

विकत्थन ||‍ न० वि + कत्थ—ल्युट् । आत्मश्लाघायाम् हेमच० । कर्त्तरि युच् तत्कर्त्तरि त्रि० ।


शब्दकल्पद्रुमः

विकत्थनं || क्ली (विकत्थ्यते इति । वि + कत्थ श्लाघा- याम् + भावे ल्युट् ।)
मिथ्याश्लाघा । यथा, —
“श्लाघा प्रशंसार्थवादः सा तु मिथ्याविकत्थनम् ॥” इति हेमचन्द्रः ॥ (यथा, भागवते । १ । १५ । १९ । “शय्यासनाटनविकत्थनभोजनादि- ष्वैकाद्बयस्य ऋतवानिति विप्रलब्धः ॥” विकत्थते आत्मानमिति । वि + कत्थ + ल्युः । आत्मश्लाघाकारिणि, त्रि । यथा, महाभारते । २ । ७३ । ३२ । “असूयितारं द्बेष्टारं प्रवक्तारं विकत्थनम् । भीमसेननियोगात्ते हन्ताहं कर्णमाहवे ॥” * ॥
स्त्री, वि + कत्थ + णिच् + युच् । टाप् । आत्म- श्लाघा । यथा, विख्यातविजयनाटके । २ । “सम्भवोक्तापि शक्तानां न प्रशस्ता विकत्थना । शरदीयघनध्वानैर्व्वाचोभिः किं भवादृशाम् ॥”)



Correction: