शब्दकल्पद्रुमः
विकरालः || त्रि (विशेषेण करालः ।) भयानकः । इति विकटशब्दार्थे मेदिनी ॥ (यथा, मार्क- ण्डेये । ११८ । ४८ । “विकरालं महावक्त्रमतिभीषणदर्शनम् । समुद्यतमहाशूलं प्रभूतमतिदारुणम् ॥”)