शब्दकल्पद्रुमः
विकर्णः || पुं, दुर्य्योधनपक्षीयशूरः । यथा, — “अश्वत्थामा विकर्णञ्च सोमदत्तिर्जयद्रथः । अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥” इति भगवद्गीतायाम् १ अध्यायः ॥ (विगतौ कर्णौ यस्येति विग्रहे कर्णरहिते, त्रि ॥)