वाचस्पत्यम्
विकर्त्तन || पु० वि + कृत ल्यु । १ सूर्य्ये २ अर्कवृक्षे च अमरः ।
शब्दकल्पद्रुमः
विकर्त्तनः || पुं, (विशेषेण कर्त्तनं यस्य । विश्वकर्म्म- यन्त्रखोदितत्वादस्य तथात्वम् ।) सूर्य्यः । अर्क- वृक्षः । इत्यमरः ॥