शब्दकल्पद्रुमः
विकर्षणं || क्ली (वि + कृष + ल्युट् ।)
आकर्षणम् । विपूर्ब्बकृषधातोरनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, किराते । ३ । ५७ । “अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म्मकार्म्मुकम् ॥” विभागः । यथा, भागवते । ३ । ७ । ३० । “वर्णाश्रमविभागांश्च रूपशीलस्वभावतः । ऋषीणां जन्मकर्म्माणि वेदस्य च विकर्षणम् ॥”)