वाचस्पत्यम्
विकल || त्रि० विरुद्धा कला यस्य । १ विह्वले, २ स्वभावहीने त्रिका० । ३ कलाहीने च । ४ ऋतुमत्यां स्त्रियां स्त्री रत्नमा० वा ङीष । विभक्ता कला यया प्रा० व० ब० । ५ कलाषष्टिभागे स्त्री “विकलानां कला षष्ट्या” ज्यो० त० ।
शब्दकल्पद्रुमः
विकलः || त्रि (विगतः कलो व्यक्तध्वनिर्यस्य ।)
विह्वलः । इति जटाधरः ॥ स्वभावहीनः । इति भरतः ॥ (यथा, महाभारते । १ । ४९ । ११ । “विधवानाथविकलान् कृपनांश्च बभार सः । सुदर्शः सर्व्वभूतानामासीत् सोम इवापरः ॥”)