वाचस्पत्यम्
विकश्व(स्व)र || त्रि० वि + कश(स)—ष्वरच् । १ प्रकाशशीले अमरः २ रक्तपुनर्नवायाञ्च राजनि० ।
शब्दकल्पद्रुमः
विकश्वरः || त्रि (वि + कश + वरच् ।)
विकासी । इत्यमरटीकायां भरतः ॥ (यथा, नैषधे । २ । ५ । “अयमेत्य तडागनीडजै- र्लघुपर्य्यव्रियताथ शङ्कितैः । उदडीयत वैकृतात् कर- ग्रहजादस्य विकश्वरस्वरैः ॥”)