वाचस्पत्यम्
विकस्वर is an alternate of विकश्वर. विकश्व(स्व)र || त्रि० वि + कश(स)—ष्वरच् । १ प्रकाशशीले अमरः २ रक्तपुनर्नवायाञ्च राजनि० ।
शब्दकल्पद्रुमः
विकस्वरः || त्रि (विकसतीति । वि + कस गतौ + “स्थेशभासपिसकसो वरच् ।” ३ । २ । १७५ । इति वरच् ।)
विकासशीलः । तत्पर्य्यायः । विकासी २ । इत्यमरः ॥ “विकसति कस ज गतौ दन्त्यान्तः यायाय भासकसेति वरे विकस्वरः । विकासः स्फुटने व्यक्ताविति दन्त्यान्ते धरणिः । ‘कुशेशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः । प्रगीयते सिद्धगणैश्च योषिता मुदा रमन्ते कलभा विकस्वरैः ॥’ इति माघयमकेऽपि दन्त्यवत्त्वम् । (४ । ३३)
कष वधे मूर्द्धन्यान्त इत्यस्य रूपमिति केचित् । कश शब्दे इत्यस्य तालव्यान्तस्य रूपमिति केचित् ।” इति तट्टीकायां भरतः ॥ (यथा, कथासरित्- सागरे । ४ । १५ । “एकस्याः सोत्सुका दृष्टिर्नृपालोकविकस्वरा । श्रुतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिवाययौ ॥”)