संस्कृत-शब्दकोशः

विकस्वरा विकार्य

विकार

वाचस्पत्यम्

विकार ||‍ पु० वि + कृ घञ् । प्रकृतेरन्यरूपे परिणामे । “विकारश्च यदात्मकं द्रव्यं मृद्वा सुवर्णं वा तस्यात्मगो- ऽन्यये पूर्वो व्यूहो निवर्त्तते व्यूहान्तरं वोपयते । तं विकारमाचक्ष्महे” वा० भा० २ । २४६ सूत्रे उक्तः । स्वरूपत्यागेन रूपान्तरापत्तिरूपः । स्वरूपस्य विनाशे अविनाशे वा द्रव्यान्तरारम्भकत्वरूपः यथा दुग्धादेर्दध्या- रम्भकत्वम् वीजादेर्वृक्षारम्भकत्वरूपो वा” गौ० सू० वृत्ता- वुक्तो वा । स्वरूपनाशोऽपि विकारो भावविकारशब्दे दृश्यः । काष्ठादेरवयवनाशेन तस्योत्पादनात् तस्यापि काष्ठविकार एव कर्मन्शब्दे विकार्य्यनिरूपणे दृश्यम् ।


शब्दकल्पद्रुमः

विकारः || पुं, (वि + कृ + घञ् ।)
प्रकृतेरन्यथाभावः । तत्पर्य्यायः । परिणामः २ विकृतिः ३ विक्रिया ४ । इत्यमरः ॥ विकृत्या ५ । इति भरतः ॥ केचित्तु पूर्ब्बद्वयं प्रकृतिध्वंसजन्यविकारे यथा काष्ठस्य विकारो भस्म । मृत्पिण्डस्य घट इति । परद्वयं विकारमात्रे यथा मुखस्य विकृतिः क्रोधरक्तता । काष्ठस्य भस्म च । इति भरतः ॥ (यथा, कुमारे । ७ । ९५ । “अपि शयनसखिभ्यो दत्तवाचं कथञ्चित् प्रमथमुखविकारैर्हासयामास गूढम् ॥” प्रकृतिविकृतिः । यथा, हरिवंशे । २४९ । ३५ । “शब्दः स्पर्शश्च रूपञ्च रसो गन्धस्तथैव च । प्रकृतिश्च विकारश्च यच्चान्यत् कारणं महत् ॥” अस्य विशेषविबरणं विकृतिशब्दे द्रष्टव्यम् ॥)
रोगः । इति मेदिनी । रे, २१८ ॥ (यथा, —
“विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते । सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ॥” इति चरके सूत्रस्थाने नवमेऽध्याये ॥ मत्स्यः । तत्पर्य्यायो यथा, —
“मत्स्यो मीनो विकारश्च झषो वैशारिणो- ऽण्डजः । शकुलो पृथुरोमा च स सुदर्शन इत्यपि ॥ रोहिताद्यास्तु ये जीवास्ते मत्स्याः परि- कीर्त्तिताः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)



Correction: