संस्कृत-शब्दकोशः

विकालिका विकाशन

विकाश

वाचस्पत्यम्

विकाश is an alternate of वीकाश. वी(वि)काश ||‍ पु० वि + काश—घञ् वा दीर्घः । १ रहसि २ प्रकाशे च अमरः ।


वाचस्पत्यम्

विकाश ||‍ न० विरुद्धः काशः । १ रहसि २ विशिष्टे काशे प्रकाशे च अमरः ।


शब्दकल्पद्रुमः

विकाशः || पुं, (वि + काशृ दीप्तौ + घञ् ।)
रहः । प्रकाशः । इत्यमरटीकायां भरतः ॥ विकाशो विजने स्फुटे । इत्यजयः ॥ (यथा, राजतर- ङ्गिण्याम् । ४ । १५५८ । “विकाशः केषाञ्चित् नयनविषमैर्व्विद्युदुदयैः परेषामुद्भूतिः श्रवणकटुभिर्दीर्घरसितैः । नचेष्टा काप्यन्योपकृतिपरिहीना जलमुचो जडा वर्षादन्यं गणयति गुणं नास्य तु जनः ॥”)



Correction: