वाचस्पत्यम्
विकिरण || न० वि + कॄ—ल्युट् नि० इत् रपरत्वम् । १ क्षेपणे २ हिंसने, २ ज्ञाने च । ५ अर्कवृक्षे पु० अमर । ६ ब० । ५ कि- रणशून्ये त्रि० ।
शब्दकल्पद्रुमः
विकिरणं || क्ली (वि + कॄ + ल्युट् । इत्वं रपर- त्वम् ।)
विक्षेपणम् । विहिंसनम् । विज्ञानम् । इति कॄधात्वर्थदर्शनात् ॥ (अर्कवृक्षे, पुं । इत्यमरः । २ । ४ । ८० ॥)