शब्दकल्पद्रुमः
विकीरणः || पुं, अर्कवृक्षः । इत्यमरः । २ । ४ । ८० ॥ (तथास्य पर्य्यायः । “अलर्को गुणरूपः स्यान्मन्दारो वसुकोऽपि च । श्वेतपुष्यः सदापुष्पः सवालार्कः प्रतीयसः ॥ रक्तोपरोऽर्कनामा स्यादर्कपर्णो विकीरणः । रक्तपुष्पः शुक्लफलस्तथास्फोटः प्रकीर्त्तितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)