वाचस्पत्यम्
विकीर्ण || त्रि० वि + कृ—क्त । विक्षिप्तं ।
शब्दकल्पद्रुमः
विकीर्णः || त्रि (विकीर्य्यते स्मेति । वि + कॄ + क्तः ।)
विक्षिप्तः । छडान इति भाषा ॥ यथा, —
“अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी । विललाप विकीर्णमूर्द्धजा समदुःखामिव कुर्व्वती स्थलीम् ॥” इति कुमारसम्भवे ४ सर्गः ॥