वाचस्पत्यम्
विकृति || स्त्री वि + कृ—क्तिन् वा । १ विकारशब्दार्थे अमरः । क्तिच् नित्यं ङीप् । २ रोगे २ डिम्बे हेमच०
शब्दकल्पद्रुमः
विकृतिः || स्त्री (वि + कृ + क्तिन् ।)
विकारः । इत्यमरः ॥ (यथा, कुमारे । ७ । ३४ । “यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् । शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥”)
रोगः । डिम्बः । मद्यादिः । इति हेमचन्द्रः ॥ (सांख्योक्तविकृतिः । यथा, सांख्यकारिका- याम् । ३ । “मूलप्रकृतिरविकृति- र्म्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥” संक्षेपतः शास्त्रस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव कश्चिदर्थो विकृतिरेव कश्चित् प्रकृति- विकृतिरेव कश्चिदनुभयरूपः । तत्र का प्रकृति- रेवेत्यत उक्तं मूलप्रकृतिरविकृतिरिति । प्रक- रोतीति प्रकृतिः प्रधानं सत्वरजस्तमसां साम्या- वस्था सा प्रकृतिः प्रकृतिरेव इत्यर्थः । कस्मादि- त्यत उक्तम् मूलेति मूलञ्चासौ प्रकृतिश्चेति मूलप्रकृतिः विश्वस्य कार्य्यसंघातस्य सा मूलं न त्वस्या मूलान्तरमस्तीति भावः । कतमाः पुनः प्रकृतिविकृतयः कियत्यश्च इत्यत उक्तं मह- दाद्याः प्रकृतिविकृतयः सप्तेति । प्रकृतयश्च ता विकृतयश्च ता इति । तथाहि महत्त्वत्त्वमह- ङ्कारस्य प्रकृतिर्विकृतिश्च मूलप्रकृतेः । एव- महङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणाञ्च प्रकृति- र्व्विकृतिश्च महतः । एवं पञ्चतन्मात्राणि भूतानामाकाशादीनां प्रकृतयो विकृतयश्चाह- ङ्कारस्य । अथ का विकृतिरेव कियती च इत्यत उक्तं षोडशकस्तु विकार इति षोडशसंख्या- परिमितो गणः षोडशकः । तु शब्दोऽवधारणे भिन्नक्रमश्च । पञ्चमहाभूतान्येकादशेन्द्रियाणि चेति षोडशको गणो विकार एव न प्रकृति- रिति । यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः एवं तद्विकारभेदानां दध्यङ्कुरादय- स्तथापि गवादयो बीजादयो वा न पृथिव्यादिभ्य स्तत्त्वान्तरम् । तत्त्वान्तरोपादानत्वञ्च प्रकृतित्व- मिहाभिप्रेतमिति न दोषः सर्व्वेषां गोघटा- दीनां स्थूलता इन्द्रियग्राह्यता च समेति न तत्त्वान्तरम् । अनुभयरूपमुक्तं तदाह न प्रकृति- र्न विकृतिः पुरुष इति तत्त्वकौमुदी ॥ ३ ॥)