वाचस्पत्यम्
विक्रमादित्य || पु० विक्रमेणादित्य इव । स्वनामख्याते नृपभेदे विक्रमार्कोऽप्यत्र “नो दुष्टः श्रुत एव वा क्षितितले श्रीविक्रमार्कोपमः” मिता० ।
शब्दकल्पद्रुमः
विक्रमादित्यः || पुं, (विक्रमेणादित्य इव ।)
स्वनाम- ख्यातो राजा । स च उज्जयनीदेशाधिपतिः संवत्कर्त्ता च । तत्पर्य्यायः । साहसाङ्कः २ शकारिः ३ । इति जटाधरः ॥ अस्य विवरणं द्वात्रिंशत्पुत्तलिकाकथायां तथा विक्रमार्कशब्दे च द्रष्टव्यम् ॥ (मोदकविशेषः । यदुक्तं चिन्ता- मणौ । यथा, —
“घृते गुन्दपलं विंशत् पचेत् सम्यग्भिषग्वरः । उत्तार्य्य च क्षिपेदेषां खण्डश्च पलविंशतिः ॥ तालमूली तुरङ्गी च शुण्ठी चेति पलार्द्धकम् । जातीफलञ्च कक्कोलं लवङ्गञ्चेति कार्षिकम् ॥ मालतीञ्च कुलिञ्जञ्च कबावं करभं त्वचम् । एतेषां कोलमात्राञ्च आयसस्य पलद्वयम् ॥ पलैकं मोदकं कृत्वा एकैकं भक्षयेद् दिने । धातुक्षीणोऽग्निक्षीणश्च बलानलकरं परम् ॥ नेत्ररोगेषु सर्व्वेषु कासश्वासे च कामले । प्रमेहान् विंशतिं हन्याद्विक्रमादित्यमोदकः ॥”)