संस्कृत-शब्दकोशः

विक्रमिन् विक्रयण

विक्रय

वाचस्पत्यम्

विक्रय ||‍ पु० वि + क्री—अच् । मूल्यग्रहणेन परस्वत्वापादके व्यापारे अमरः । विक्रये विहिताविहितनक्षत्राणि यथा “यमाहिशक्रा- ग्निहुताशपूर्वा नेष्टाः क्रये विक्रयणे प्रशस्ताः । पौष्णाग्नि चित्राशतविन्दुवाताः क्रये हिता वि क्रयणे निषिद्धाः” । ज्योतिः सारः । क्रयविक्रयनिर्णयो यथा “मूल्यं दास्या- मीति नियमं कृत्वा ग्रहणादपि क्रयसिद्धिः । तथाच वि- वादचिन्तामणौ कात्यायनः “पण्यं गृहीत्वा यो मूल्य- मदत्त्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमाप्नुयात्” । अतएव वृहस्पतिः “गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् । पत्रं कारयते यत्तुक्रय- लेख्यं तदुच्यते” । क्रयविक्रये समयविशेषाभ्यन्तरे पश्चा- त्तापादसिद्धिः । यथाह मनुः “क्रीत्वा विक्रीय वा कि- ञ्चित् यस्येहानुशयो भवेत् । सोऽन्तर्दशाहे तद्द्रव्यं दद्याच्चैवाददीत वा” । एतद्याज्ञवल्क्योक्तेतरपरम् । यथा याज्ञवल्क्य “दशैकपञ्चसप्ताहमासत्र्यहार्द्ध- सासिकम् । वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परी- क्षणं । अत्र वृहस्पतिः “अतोऽर्वाक् पण्यदोषस्तु यदि संजायते क्वचित् । विक्रेतुः प्रतिदेयन्तत् क्रेता मूल्य- मवाप्नुयात्” । अतस्तद्द्रव्यपरीक्षणकालात् । कात्या- यनः “अविज्ञातन्तु यत् क्रीतं दुष्टं पश्चाद्विभावितम् । क्रेत्रा तत् स्वामिने देयं पण्यं कालेऽन्यथा न तु” । काले प्रागुक्तपरीक्षाकालाभ्यन्तरे । परीक्षिते तु वृह- स्पतिः “परीक्षेत स्वयं पण्यं अन्येषाञ्च प्रदर्शयेत । परीक्षितं बहुमत गृहीत्वा न पुनस्त्यजेत्” । अत्र विशेष- यति नारदः “क्रीत्वा मूल्येन यो द्रव्यं दुषक्रीतं म- न्यते क्रयी । विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्य- विक्षतम् । द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांश- माहरेत् । द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत्” । आहरेत् दद्यात् विक्रेत्रे इति शेषः । द्विगुणं त्रिंशा- शस्य । याज्ञवल्क्यः “राजदैवोपघातेन पण्ये दोष- मुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः” । नारदः “उपहन्येत वा पण्यं दह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः । दीयमानं न गृह्णाति क्रीतं पण्यन्तु यः क्रयी । स एवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः” प्राय० त० । “न्यासं कृत्वा परत्राधिं कृत्वा बाधिं करोति च । विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा” । न्यासं कृत्वा आधिं करोति आधिं कृत्वा वा विक्रयं करोति । विक्रयपदं सत्त्वध्वं सकत्वात् दानं लक्षयति तत्र परा क्रिया सिद्धेत्यर्थः । एवञ्च विक्रेतृदात्रोर्मरणादिना आध्यनुद्धारे विक्रयदाने तत्कर्त्तृतुल्यस्वत्वजननात् तत्र तत्क्रेतृप्रतिग्रही- तृभ्यामाध्युद्धारः कार्य्यः इति । न चं “स्थावरस्य समस्तस्य गोत्रसाधारणस्य च । नैकः कुर्य्यात् क्रयं दानं परस्परमतं विना । विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्वत्र दानाधम नविक्रये” इति व्यासवचनाभ्यामेकस्य दानबन्धक- विक्रयानधिकारः इति वाच्यं यथेष्टविनियोगार्हत्वरूपस्य स्वत्वस्य द्रव्यान्तर इवात्राप्यविशेषात् वचनञ्च स्वामित्वेन दुर्वृत्तपुरुषगाचरविक्रयादिना कुटुम्बविरोधादधर्म- ज्ञापनार्थनिषेधकं न तु विक्रयाद्यनिष्पत्त्यर्थमिति” दाय- भागः । एवञ्च “स्थावरे विक्रयो नास्ति कुर्य्यादाधि- मनुज्ञया” इति स्थावरस्य केवलविक्रयप्रतिषेधात् एवं “भूमिं यः प्रतिगृह्णातीत्यादिवचने दानप्रशंसादर्श- नाच्च विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकं दत्त्वा दान- रूपेण स्थावरविक्रय इति” विज्ञानेश्वरः । वस्तुतस्तु स्थावरविक्रयनिषेधः अविभक्तस्थावरविषयः । तत्रापि यदि विक्रयं विना अवस्थितिर्न भवति तदा विक्रयः क- र्त्तव्यः । पूर्वपुरुषार्जितनष्टोद्धारे विशेषयति मिताक्ष- रायाम् “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् । असम्भूय सुतान् सर्वान् न दानं न च० विक्रयः” इ- यादि । अस्यापवादमाह “एकोऽपि स्थावरे कुर्य्याद्- दानाधमनविक्रयम् । आषत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः” दायतत्त्वे रघु० । द्रव्यविशेषविक्रयनिषेधो यथा स्मृतिः “विक्रीणन् मद्यमांसानि ह्यभक्ष्यस्य च भक्षणम् । कुर्वन्नगग्यागमनं शूद्रः षतति तत्क्षणात् । कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । वेदाक्षरवि- चारेण शूद्रश्चाण्डालतां व्रजेत्” कालिकापु० । “विक्रयं सर्ववस्तूनां कुर्वन् शूद्रो न दोषभाक् । मधु चर्म सुरां लाक्षां त्यक्त्वा मांसञ्च पञ्चमम्” मनुः । “सद्यः पतति लौहेन लाक्षया लवणेन च । त्रहेण शूद्रो भवति ब्रा- ह्मणः क्षीरविक्रयात् । अशक्तौ भेषजस्यार्थे यज्ञहेतो- स्तथैव च । यद्यवश्यन्तु विक्रेयास्तिला घान्येन तत्समाः” आह्नि० त० । “गवां विक्रयकारी च गवां गोष्ठे क्रमि- र्भवेत्” इति यमवचनम् । “गोबधोऽयाज्यसंयाज्यपा- रदार्य्यात्मविक्रयाः । तडामारामदाराणामपत्यस्य च वि- क्रयः । भृताच्चाध्ययनादानमपण्यानाञ्च विक्रयः” मनुः ।


शब्दकल्पद्रुमः

विक्रयः || पुं, (विक्रयणमिति । वि + क्री + “एरच् ।” ३ । ३ । ५६ । इति अच् ।)
विक्रयणक्रिया । वेचा इति भाषा ॥ तत्पर्य्यायः । विपणः २ । इत्य- मरः ॥ विपणनम् ३ पणनम् ४ । इति शब्द- रत्नावली ॥ व्यवहारः ५ पणाया ६ । इति जटाधरः ॥ अस्य विहिताविहितनक्षत्राणि यथा, —
“यमाहिशक्राग्निहुताशपूर्ब्बा नेष्टाः क्रये विक्रयणे प्रशस्ताः । पौष्णाग्निचित्राशतबिन्दुवाताः क्रये हिता विक्रयणे निषिद्धाः ॥” इति ज्योतिःसारसंग्रहः ॥ * ॥
क्रयविक्रयनिर्णयो यथा । मूल्यं दास्यामीति कृत्वा ग्रहणादपि क्रयसिद्धिः । तथा च विवाद- चिन्तामणौ कात्यायनः । “पण्यं गृहीत्वा यो मूल्यमदत्त्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमाप्नुयात् ॥” अतएव बृहस्पतिः । “गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् । पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ॥” क्रयविक्रये समयविशेषाभ्यन्तरे पश्चात्तापाद- सिद्धिः । यथा मनुः । “क्रीत्वा विक्रीय वा किञ्चित् यस्येहानुशयो भवेत् । सोऽन्तर्द्दशाहे तद्दव्यं दद्याच्चैवाददीत वा ॥” एतद्याज्ञवल्क्योक्तेतरपरम् । यथा याज्ञ- वल्क्यः । “दशैकपञ्चसप्ताहमासत्र्यहार्द्धमासिकम् । बीजायोबाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥” अत्र बृहस्पतिः । “अतोऽर्व्वाक् पण्यदोषस्तु यदि संजायते क्वचित् । विक्रेतुः प्रतिदेयन्तत् क्रेता मूल्यमवाप्नुयात् ॥” अतस्तद्द्रव्यपरीक्षणकालात् । कात्यायनः । “अविज्ञातन्तु यत् क्रीतं दुष्टं पश्चाद्विभावितम् । क्रीतं तत् स्वामिने देयं पण्यं कालेऽन्यथा न तु ॥” काले प्रागुक्तपरीक्षाकालाभ्यन्तरे । परीक्षिते तु बृहस्पतिः । “परीक्षेत स्वयं पण्यं अन्येषाञ्च प्रदर्शयेत् । परीक्षितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ॥” अत्र विशेषयति नारदः । “क्रीत्वा मूल्येन यो द्रव्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्यविक्षतम् ॥ द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांशमाहरेत् । द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥” आहरेत् दद्यात् विक्रेत्रे इति शेषः । द्विगुणं त्रिंशांशस्य । याज्ञवल्क्यः । “राजदैवोपघातेन पण्ये दोष उपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥” नारदः । “उपहन्येत वा पण्यं दह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥ दीयमानं न गृह्णाति क्रीतं पण्यन्तु यः क्रयी । स एवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥
अपि च । “न्यासं कृत्वा परत्राधिं कृत्वा वाधिं करोति च । विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा ॥” न्यासं कृत्वा आधिं करोति आधिं कृत्वा वा विक्रयं करोति । विक्रयपदं स्वत्वध्वंसकत्वात् दानं लक्षयति परा क्रिया सिद्धेत्यर्थः । एवञ्च विक्रेतृदात्रोर्मरणादिना आध्यनुद्धारे विक्रय- दाने तत्कर्त्तृतुल्यस्वत्वजननात तत्र तत्क्रेतृ- प्रतिग्रहीतृभ्यामाध्युद्धारः कार्य्यः । इति । तत्र च । “न च स्थावरस्य समस्तस्य गोत्रसाधारणस्य च । नैकः कुर्य्यात् क्रयं दानं परस्परमतं विना ॥ विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः । एको ह्यनीशः सर्व्वत्र दानाधमनविक्रये ॥” इति व्यासवचनाभ्यामेकस्य दानबन्धकविक्रया- धिकारः इति वाच्यं यथेष्टविनियोगार्हत्वरूपस्य स्वत्वस्य द्रव्यान्तर इवात्राप्यविशेषात् वच- नञ्च स्वामित्वेन दुर्व्वृत्तपुरुषगोचरविक्रयादिना कुटुम्बविरोधादधर्म्मज्ञापनार्थनिषेधरूपं न तु विक्रयाद्यनिष्पत्यर्थमिति दायभागः ॥ * ॥
एवञ्च । “स्थावरे विक्रयो नास्ति कुर्य्यादाधिमनुज्ञया ॥” इति स्थावरस्य केवलविक्रयप्रतिषेधात् एवं भूमिं यः प्रतिगृह्णातीत्यादिवचने दानप्रशंसा- दर्शनाच्च विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकं दत्त्वा दानरूपेण स्थावरविक्रय इति विज्ञाने- श्वरः ॥ वस्तुतस्तु स्थावरविक्रयनिषेधो अवि- भक्तस्थावरविषयः । तत्रापि यदि विक्रयं विना अवस्थितिर्न भवति तदा विक्रयः कर्त्तव्यः । पूर्ब्बपुरुषार्ज्जितनष्टोद्धारे विशेषयति मिता- क्षरायाम् । “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्ज्जितम् । असम्भूय सुतान् सर्व्वान् न दानं न च विक्रयः ॥” इत्यादि ॥ अस्यापवादमाह । “एकोऽपि स्थावरे कुर्य्याद्दानाधमनविक्रयम् । आपत्काले कुटुम्बार्थे धर्म्मार्थे च विशेषतः ॥” इति दायतत्त्वम् ॥ द्रव्यविशेषविक्रयनिषेधो यथा । स्मृतिः । “विक्रीणन् मद्यमांसानि ह्यभक्षस्य च भक्षणम् । कुर्व्वन्नगम्यागमनं शूद्रः पतति तत्क्षणात् ॥ कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत् ॥” कालिकापुराणम् । “विक्रयं सर्व्ववस्तूनां कुर्व्वन् शूद्रो न दोषभाक् । मधु चर्म्म सुरां लाक्षां त्यक्त्वा मांसञ्च पञ्चमम् ॥” मनुः । “सद्यः पतति लौहेन लाक्षया लवणेन च । त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयात् ॥ अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्यवश्यन्तु विक्रेयास्तिला धान्येन तत्समाः ॥” इत्याह्निकतत्त्वम् ॥ “गवां विक्रयकारी च गवि लोमानि यानि च । तावद्वर्षसहस्राणि गवां गोष्ठे क्रिमिर्भवेत् ॥” इति यमवचनम् ॥ “गोवधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयाः । तडागारामदाराणामपत्यस्य च विक्रयः । भृताच्चाध्ययनादानमपण्यानाञ्च विक्रयः ॥” इत्यादि मानवे ११ अध्याये उपपातकमध्ये गणितम् ॥



Correction: