शब्दकल्पद्रुमः
विक्रयणं || क्ली (वि + क्री + ल्युट् ।) विक्रयः । यथा, “यमाहिशक्राग्निहुताशपूर्ब्बा नेष्टाः क्रये विक्रयणे प्रशस्ताः । पौष्णाग्निचित्राशतविन्दुवाताः क्रये हिता विक्रयणे निषिद्धाः ॥” इति ज्योतिःसारसंग्रहः ॥