संस्कृत-शब्दकोशः

विक्रायक विक्रीत

विक्रिया

वाचस्पत्यम्

विक्रिया ||‍ स्त्री वि + कृ—भावे श । १ विकारे अन्यथास्थितस्य वस्तुनोऽन्यथा परिणामे ।


शब्दकल्पद्रुमः

विक्रिया || स्त्री (विकरणमिति । वि + कृ + “कृञः शच ।” ३ । ३ । १०० । इति शः । टाप् ।)
विकारः । इत्यमरः ॥ (यथा, रघुः । १३ । ७१ । “श्मश्रुप्रवृद्धिजनिताननविक्रियांञ्च प्लक्षान् प्ररोहजटिलानिव मन्त्रिवृद्धान् ॥” प्रकृतेरन्यथाभावः । यथा, मार्कण्डेये । ३५ । २ । “अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः ॥” विरुद्धा क्रिया । विरुद्धकार्य्यम् । यथा, रघुः । १५ । ४८ । “इत्याप्तवचनाद्रामो विनेष्यन् वर्णविक्रियाम् । दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥”)



Correction: