शब्दकल्पद्रुमः
विक्रेता || [ऋ] त्रि, (विक्रीणातीति । वि + क्री + तृच् ।)
विक्रयकर्त्ता । तत्पर्य्यायः । विक्रयिकः २ । इत्यमरः ॥ विक्रयी ३ । इति शब्दरत्ना- वली ॥ विक्रायकः ४ । इति हेमचन्द्रः ॥ (यथा, याज्ञवल्क्यः । २ । १७३ । “विक्रेतुर्द्दर्शनात् शुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ॥”)