संस्कृत-शब्दकोशः

विक्रेतृ विक्लव

विक्रेय

वाचस्पत्यम्

विक्रेय ||‍ त्रि० वि + व्री—यत् । विक्रयणीये पदार्थे ।


शब्दकल्पद्रुमः

विक्रेयं || त्रि (विक्रीयते इति । वि + क्री + “अचो यत् ।” ३ । १ । ९७ । इति यत् ।)
विक्रययोग्यद्रव्यम् । तत्पपर्य्यायः । पणितव्यम् २ पण्यम् ३ । इत्य- मरः ॥ विक्रययोग्यायोग्यानि यथा, —
“इदन्तु वृत्तिवैकल्यात्त्यजतो धर्म्मनैपुणम् । विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्द्धनम् ॥ सर्व्वान्रसानपोहेत कृतान्नञ्च तिलैः सह । अश्मनो लवणञ्चैव पशवो ये च मानुषाः ॥ सर्व्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत् स्युररक्तानि फलमूले तथौषधीः ॥ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्व्वशः । क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ अरण्यांश्च पशून् सर्व्वान् दंष्ट्रिणश्च वयांसि च । मद्यं नीलीञ्च लाक्षांश्च सर्व्वांश्चैकशफांस्तथा ॥ काममुत्पाद्य कृष्यास्तु स्वयमेव कृषीवलः । विक्रीणीत तिलान् शुद्धान् धर्म्मार्थमचिर- स्थितान् ॥” इति मानवे १० अध्यायः ॥



Correction: