वाचस्पत्यम्
विक्षेप || पु० वि + क्षिप—घञ् । १ त्यागे २ प्रेरणे ३ दूरीकरणे च । “चित्तस्य विक्षेपा नवविधाः पात० सूत्रभाष्ययोर्दर्शितास्ते च चित्तविक्षेपशब्दे २९४१ पृ० अन्तरायशब्दे च दृश्याः । वेदान्वसिद्धचित्तविक्षेपाः २०० पृ० उक्ताः । विमण्डले यत् ग्रहस्थानं तस्य क्रान्तिवृत्ताद् यत् तिर्य्य- गन्तरं स विक्षेपः” सि० शि० उक्ते ४ शरे च । “भूषाणामर्द्धरचना वृथा विष्वगवेक्षणम् । रहस्याख्या- नमीषच्च विक्षेपी दयितानिके” सा० द० उक्ते स्त्रीणां ५ सत्त्वजालङ्कारभेदे ६ कथाविच्छेदरूपे मिग्रहस्थानभेदे “कार्य्यव्यासङ्गात् कथाविच्छेदो विक्षेपः” गौ० सृ० “यत्र कर्त्तव्यं व्यासज्य कथां व्यवच्छिनत्ति । इदं मे करणीयं विद्यते तस्मिन्नवसिते कथयिष्यामि इति विक्षेपो नाम निग्रहस्थानम् । एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रति- पद्यते इति” वा० भा० । “असम्भवत्कालान्तरकत्वेनारोपितं कार्य्यं व्यासङ्गमुद्भाव्य कथाविच्छेदस्तथा” वृत्तिः ।
शब्दकल्पद्रुमः
विक्षेपः || पुं, (वि + क्षिप् + घञ् ।)
प्रेरणम् । त्यागः । विक्षेपणम् । यथा, —
“नैरृत्यामिषुविक्षेपमतीत्य ह्यधिकं भुवम् ॥” इत्याद्याह्निकाचारतत्त्वम् ॥ (कम्पनम् । यथा, कुमारे । १ । १३ । “लाङ्गूलविक्षेपविसर्पिशोभै- रितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थेयुक्तं गिरिराजशब्दं कुर्व्वन्ति वालव्यजनैश्चमर्य्यः ॥”)
अद्बितीयवस्त्ववलम्बनेन चित्तस्य अन्यावलम्ब- नम् । इति वेदान्तसारः ।