संस्कृत-शब्दकोशः

विक्षेप विख

विक्षेपशक्ति

वाचस्पत्यम्

विक्षेपशक्ति ||‍ स्त्री विक्षेपस्य जनिका शक्तिः । वेदान्तोक्ते- अविद्याशक्तिभेदे । “विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृतरज्ज्वौ स्व- शक्त्या सर्पादिकमुद्भावयति एवमज्ञानमपि स्वावृतात्मनि स्वशक्त्या आकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम् । तदुक्तम् “विक्षपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं लगत्सृजे- दिति” । येदान्तसा० ।


शब्दकल्पद्रुमः

विक्षेपशक्तिः || स्त्री (विक्षेपाय शक्तिः ।)
माया- शक्तिः । यथा । रज्ज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पादिकमुद्भावयति । एवं अज्ञानमपि स्वावृ- तात्मनि तथा विक्षेपशक्त्या आकाशादिप्रपञ्च- मुद्भावयति तादृशं सामर्थ्यम् । इति वेदान्त- सारसुबोधिनीटीका ॥



Correction: