संस्कृत-शब्दकोशः

विगर्हणा विगलित

विगर्हित

वाचस्पत्यम्

विगर्हित ||‍ त्रि० वि + गर्ह—क्त । १ निन्दिते २ निषिद्धे च । भावे—क्त । ३ निन्दायाम् न० ।


शब्दकल्पद्रुमः

विगर्हितः || त्रि (विशेषेण गर्हितः ।)
निन्दितः । (यथा, नैषधे । १ । १३१ । “न केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः । विगर्हितं धर्म्मधनैर्निवर्हणं विशिष्य विश्वासजुषां द्विषामपि ॥”)
निषिद्धः । इति विपूर्ब्बगर्हधातोः क्तप्रत्ययेन निष्पन्नः ॥



Correction: