शब्दकल्पद्रुमः
विगलितः || त्रि (विशेषेण गलितः ।) स्खलितः । यथा, गीतगोविन्दे ५ सर्गः । “विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् । किशलयशयने पङ्कजनयने निधिमिव हर्षनिधानम् ॥”