संस्कृत-शब्दकोशः

विचेतस् विच्छ

विचेष्टित

वाचस्पत्यम्

विचेष्टित ||‍ त्रि० विगतं चेष्टितमस्य । १ चेष्टाशून्ये, वि + चेष्ट- भावे क्त । २ विशेषेण चेष्टायाम् न० ।


शब्दकल्पद्रुमः

विचेष्टितः || त्रि (विशेषेण चेष्टितं गतिर्यस्य ।)
विगतः । (विशेषेण चेष्टितः ।)
ईहितः । इति मेदिन्यां चेष्टितशब्दार्थदर्शनात् ॥ (विगतं चेष्टितमस्येति वाक्ये चेष्टाशून्यश्च ॥ * ॥
क्ली, वि + चेष्ट + भावे क्तः । विशेषेण चेष्टा । यथा, भागवते । १ । ५ । १३ । “उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥”)



Correction: