संस्कृत-शब्दकोशः

विच्छर्दक विच्छित्ति

विच्छाय

वाचस्पत्यम्

विच्छाय ||‍ न० वीनां पक्षिणां छाया नपुंसकत्वम् । पक्षि समूहच्छायायाम् अमरः । विगता छाया यस्य । २ छाया- रहिते त्रि० मेदि० । ३ विशिष्टकान्तियुते मणौ भरतः ।


शब्दकल्पद्रुमः

विच्छायं || क्ली पक्षिणां छाया । इत्यमरः ॥ समासे षष्ठ्यन्तात् परा च्छाया क्लीवे स्यात् । सा चेत् बहूनां सम्बन्धिनी स्यात् । स्वयमुदा- हरति । वीनां पक्षिणां चाया विच्छायम् । इत्यमरटीकायां भरतः ॥ (यत्तु भागवते । १० । १२ । ८ । “विच्छायाभिः प्रधावन्तो गच्छन्तः साधु हंसकैः ॥” इति दृश्यते तत्तु वेः पक्षिणश्चाया विच्छाया तत एकशेषद्बन्द्वे कृते विच्छायास्ताभिर्विच्छाया- भिरिति सिद्धं स्यादिति सुधीभिर्विभाव्यम् ॥ * ॥
विगता च्छाया यस्य ।)
छायारहिते, त्रि ॥ (विगता च्छाया कान्तिर्य्यस्य । कान्तिरहिते च त्रि । यथा, भागवते । १ । १४ । २४ । “विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः । पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम् ॥”)


शब्दकल्पद्रुमः

विच्छायः || पुं, (विशिष्टा छाया कान्तिर्यस्य ।)
मणिः । इति यान्तवर्गे छायाशब्दटीकायां भरतः ॥



Correction: