वाचस्पत्यम्
विच्छित्ति || स्त्री वि + छिद—क्तिन् । १ अङ्गरागे २ हारभेदे ३ विच्छदे मेदि० । ४ छेदे ५ विनाशे ६ स्त्रीणां चेष्टाभेदे च । “स्ताकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत्” सा० द०
शब्दकल्पद्रुमः
विच्छित्तिः || स्त्री (वि + छिद् + क्तिन् ।)
अङ्ग- रागः । विच्छेदः ॥ (यथा, कामन्दकीयनीति- सारे । १४ । ४४ । “लोभो धर्ग्मक्रियालोपः कर्म्मणामप्रवर्त्तनम् । सत्समागमविच्छित्तिरसद्भिः सह वर्त्तनम् ॥”)
हारभेदः । इति मेदिनी । ते, १८५ ॥ छेदः । विनाशः । इति त्रिकाण्डशेषः ॥ (यथा, बृहत्- संहितायाम् । १२ । ६ । “दिनकररथमार्गविच्छित्तयेऽभ्युद्यतं यच्चल- शृङ्गम् ॥”)
अङ्गहारः । गेहावधि । इति हेमचन्द्रः ॥ (वैचित्र्यम् । यथा, साहित्यदर्पणे । १० । ७११ । “अनुमानन्तु विच्छित्या ज्ञानं साध्यस्य साध- नात् ॥” स्त्रीणां स्वाभाविकालङ्कारविशेषः ।)
यथा, —
“आकल्पकल्पनाल्पापि विच्छित्तिः कान्तिपोष- कृत् ॥” इत्युज्ज्वलनीलमणिः ॥ (यथा च साहित्यदर्पणे । ३ । १३८ । “स्तोकाप्याकल्परचणा विच्छित्तिः कान्ति- पोषकृत् ॥”)