वाचस्पत्यम्
विच्छिन्न || त्रि० वि + छिद—क्त । १ विभक्ते २ समालब्धे च मेदि० ३ कुटिले हमच० । भावे—क्त । ४ छदने न० ।
शब्दकल्पद्रुमः
विच्छिन्नः || त्रि (वि + छिद् + क्तः ।)
समालब्धः । विभक्तः । इति मेदिनी । ने, १३४ ॥ (यथा, शाकुन्तले १ अङ्के । “यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदन्तर्व्विच्छिन्नं भवति कृतसन्धानमिव तत् । प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो- र्न मे पार्श्वे किञ्चित् क्षणमपि न दूरे रथ- जवात् ॥”)
कुटिलः । इति हेमचन्द्रः ॥