शब्दकल्पद्रुमः
विजरः || त्रि जरारहितः । विगता जरा यस्येति बहुव्रीहिसमासनिष्पन्नः ॥ (यथा, कथासरित्- सागरे । ४१ । ११ । “यः सर्व्वौषधियुक्तिज्ञश्चक्रे सिद्धरसायनः । आत्मानं तञ्च राजानं विजरं चिरजीवितम् ॥”)