शब्दकल्पद्रुमः
विजलं || त्रि विजिलम् । इति हेमचन्द्रः ॥ (विगतं जलं यस्मात् ।) निर्जलञ्च ॥ (यथा, बृहत्- संहितायाम् । १९ । २० । “नष्टर्कचन्द्रकिरणातिरजोऽवनद्धा तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः ॥”)