संस्कृत-शब्दकोशः

विजुल विजृम्भित

विजृम्भण

वाचस्पत्यम्

विजृम्भण ||‍ न० वि जृमि—ल्युट् । १ विकाशे २ मुखविकाशहेतु- भूते वायुव्यापारभेदे (हाइतोला) । अ विजृम्भात्र स्त्री ।


शब्दकल्पद्रुमः

विजृम्भणं || क्ली (वि + जृम्भ + ल्युट् ।)
जृम्भणम् । (यथा, सुश्रुते । ५ । २ । “निद्रागुरुत्वञ्च विजृम्भणञ्च विश्लेषहर्षावथवाङ्गमर्द्दः ॥”)
विकसनम् । इति केचित् ॥ (यथा, रघुः । १६ । ४७ । “वनेषु सायन्तनमल्लिकानां विजृम्भणोद्गन्धिषु कुट्मलेषु ॥” कम्पनम् । सङ्कोचः । यथा, भागवते । ७ । ५ । ४९ । “जितं त्वयैकेन जगत्त्रयं भ्रुवो- र्विजृम्भणत्रस्तसमस्तधिष्ण्यपम् ॥”)



Correction: