वाचस्पत्यम्
विजृम्भित || त्रि० वि + जृभि—क्त । १ विकशिते मेदि० २ जृम्भा- युक्ते भावे क्त । ३ प्रकाशे ४ चेष्टायां ५ जृम्भायां च मेदि० ।
शब्दकल्पद्रुमः
विजृम्भितं || क्ली (वि + जृम्भ + क्तः ।)
चेष्टा । इति मेदिनी । ते, २१७ ॥ (यथा, कथासरित्- सागरे । ४ । १३ । “अथागत्य समाख्यातं तत्सख्या मन्त्रिबन्धनम् । उद्गाढमुपकेशाया नवानङ्गविजृम्भितम् ॥”)
शब्दकल्पद्रुमः
विजृम्भितः || त्रि (वि + जृम्भ + क्तः ।)
विक- स्वरः । इति मेदिनी । ते, २१७ ॥ यथा, भागवते । ४ । २१ । ८ । “तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम् ॥” व्याप्तः । यथा, रघुः । ७ । ४२ । “आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ॥” * ॥
विजृम्भा सञ्जाता अस्येति । तारकादित्वादि- तच् ।)
जृम्भायुक्तश्च ॥ (यथा, हरिवंशे । १८१ । ६ । “सशरं सधनुष्कञ्च दृष्ट्वात्मानं विजृम्भितम् । ततो ननाद भूतात्मा स्निग्धगम्भीरनिःस्वनः ॥”)