संस्कृत-शब्दकोशः

विज्जुलिका विज्ञबुद्धि

विज्ञ

वाचस्पत्यम्

विज्ञ ||‍ त्रि० विशेषेण जानाति वि + ज्ञा—क । १ प्रवीणे अमरः । २ पण्डिते पु० राजनि० ।


शब्दकल्पद्रुमः

विज्ञः || त्रि (विशेषेण जानातीति । वि + ज्ञा + “आतश्चोपसर्गे ।” इति कः ।)
प्रवीणः । इत्यमरः ॥ (यथा, भागवते । ६ । १६ । ६१ । “एवं विपर्य्ययं बुद्धा नृणां विज्ञाभिमानिनाम् । आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥”)
अस्य पर्य्यायो निपुणशब्दे द्रष्टव्यः ॥ पण्डितः । इति राजनिर्घण्टः ॥ (यथा, नैषधे । ३ । ९६ । “विज्ञेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयास्मिन् समयं प्रतीक्ष्य । आत्यन्तिकासिद्धिविलम्बसिद्ध्योः कार्य्यस्य कार्य्यस्य शुभा विभाति ॥”)



Correction: