संस्कृत-शब्दकोशः

विज्ञानिक विज्ञाप्ति

विज्ञापन

शब्दकल्पद्रुमः

विज्ञापनं || क्ली (वि + ज्ञा + णिच् + ल्युट् ।)
बोध- नम् । जानान इति भाषा । विपूर्ब्बञ्यन्त- ज्ञाधातोरनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, कथासरित्सागरे । ३१ । ५८ । “तया विज्ञापनायाहं प्रेषितः स्वीकुरुष्व ताम् । युवयोरस्तु योगोऽयं कौमुदीचन्द्रयोरिव ॥” * ॥
स्त्री, वि + ज्ञा + णिच् + युच् । टाप् । विज्ञा- पना । यथा, रघुः । १७ । ४० । “ततः परमभिव्यक्तसौमनस्यनिवेदितैः । युयोज पाकाभिमुखैर्भृत्यान् विज्ञापनाफलैः ॥”)



Correction: