संस्कृत-शब्दकोशः

विडाल विडालपद

विडालक

शब्दकल्पद्रुमः

वि(बि)डालकं || क्ली हरितालम् । इति हेमचन्द्रः ॥


शब्दकल्पद्रुमः

वि(बि)डालकः || पुं, (विडाल एव । स्वार्थे कन् ।)
विडालः । नेत्ररोगस्य औषधविशेषः । यथा । अथ विडालकविधिः । “विडालको बहिर्लेपो नेत्रे पक्ष्मविवर्ज्जिते । तस्य मात्रा परिज्ञेयो मुखालेपविधानवत् ॥” मुखालेपो यथा, —
“अङ्गुलस्य चतुर्थांशो मुखालेपः कनिष्ठिकः । मध्यमस्तु त्रिभागः स्यादुत्तमोऽर्द्धाङ्गुलो भवेत् ॥ स्थितिकालोऽपि तस्योक्तो यावत् कल्को न शुष्यति । तेनापि गुणहीनः स्यात्तथा दूषयति त्वचम् ॥” स यथा । “यष्टिगैरिकसिन्धूत्थदार्व्वीतार्क्ष्यैः समांशकैः ।” जलपिष्टैर्बहिर्लेपः सर्व्वनेत्रामयापहः ॥” तार्क्ष्यं रसाञ्जनम् । “रसाञ्जनेन वालेयः पथ्याविल्वदलैरपि । वचाहरिद्राविश्वैर्व्वा तथा नागरगैरिकैः ॥” इति भावप्रकाशः ॥



Correction: