शब्दकल्पद्रुमः
वि(बि)डालपदः || पुं, तोलकद्वयपरिमाणम् । यथा, “तोलौ द्वौ पिचुरक्षश्च सुवर्णकडवग्रहः । विडालपदकर्षौ च पाणीतलमुडुम्बरम् ॥” इति शब्दमाला ॥ मार्ज्जारचरणे, क्ली ॥