वाचस्पत्यम्
वितर्क || पु० वि + तर्क—भावे अच् । १ सन्देहे २ ऊहे च मेदि० । ३ ज्ञानसूचके शब्दर० । ४ अर्थालङ्कारभेदे अलङ्कारशब्दे ४०३ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
वितर्कः || पुं, (वि + तर्क + घञ् ।)
ऊहः । (यथा, भागवते । १० । ८९ । १ । “सरस्वत्यास्तटे राजन् ऋषयः सत्रमासत । वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् ॥”)
संशयः । इति मेदिनी । के, १५७ ॥ (यथा, महाभारते । १ । १९० । २३ । “यौ तौ कुमाराविव कार्त्तिकेयौ द्वावश्विनेयाविति मे वितर्कः ॥”)
ज्ञानसूचकः । इति शब्दरत्नावली ॥ * ॥
आहो उताहो किमुत किं किमु उत एते षट् विकल्पवितर्कार्थे । यथा स्थाणुराहो पुरुषः । इति अहो ह्रस्वादि च । विकल्पे विस्मयेऽप्यहो इति रुद्रः । किमु ह्रस्वान्तं उत ह्रस्वादि । चकारात् उताहोस्वित् आहोस्वि- दिति च यथा भारते । “उताहोस्विद्भवेद्राजा नलः परपुरञ्जयः ।” इति आहोस्विन्मुखमिति भारवौ । इति भरतः ॥