वाचस्पत्यम्
विदग्ध || त्रि० वि + दह—क्त । १ नागरे त्रिका० २ निपुणे राजनि० ३ पण्डिते च शब्दच० । ४ नायिकाभेदे स्त्री रसगञ्जरी । परकीयशब्दे ४२३३ पृ० दृश्यम् । ५ विशेषेण दग्धे त्रि० ।
शब्दकल्पद्रुमः
विदग्धः || त्रि (वि + दह + क्तः ।)
नागरः । इति त्रिकाण्डशेषः ॥ (यथा देवीभागवते । ९ । “विदग्धाया विदग्धेन सङ्गमो गुणवान् भवेत् ॥”)
निपुणः । इति त्रिकाण्डशेषः ॥ (यथा आर्य्या- सप्तशत्याम् । ५०६ । “लिप्तं न मुखं नाङ्गं न पक्षती चरणाः परा- गेण । अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥”)
पण्डितः । इति शब्दरत्नावली ॥ (विशेषेण दग्धः । यथा, सुश्रुते । ४ । १ । “शोफयोरुपनाहन्तु कुर्य्यादामविदग्धयोः । अविदग्धः शमं याति विदग्धः पाकमेति च ॥”)