वाचस्पत्यम्
विदर्भ || पुंस्त्री० विगताः दर्भाः कुशायतः । देशभेदे कुण्डिन- नगरे (वडनागपुर) ।
शब्दकल्पद्रुमः
विदर्भः || पुं, स्त्री, (विशिष्टा दर्भाः कुशा यत्र ।)
कुण्डिननगरम् । इति हेमचन्द्रः ॥ स तु वङ्ग- देशस्य दक्षिणपश्चिमे वर्त्तते अधुना वडनाग- पुर इति ख्यातः ॥ * ॥
यथा, पूर्ब्बनैवधे २ सर्गः । “स जयत्यरिसार्थसार्थकीकृतनामा किल भीम- भूपतिः । यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शक्र- भर्त्तृकाम् ॥” (यथा च रघुः । ५ । ६० । “एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् ॥” * ॥
पुं, नृपविशेषः । स च ज्यामघात् शैव्यायां जातः । अस्य कुशक्रथलोमपादाः पुत्त्राः । यथा, भागवते । ९ । २४ । १ । “तस्यां विदर्भोऽजनयत् पुत्त्रौ नाम्ना कुशक्रथौ । तृतीयं रोमपादञ्च विदर्भकुलनन्दनम् ॥” अस्य नाम्नैव विदर्भनगरी समुत्पन्ना ॥ मुनि- विशेषः । यथा, हरिवंशे । १६६ । ८४ । “द्वैपायनो विदर्भश्च जैमिनिर्माठरः कठः ॥”)