संस्कृत-शब्दकोशः

विदर्भाधिपति विदला

विदल

वाचस्पत्यम्

विदल ||‍ त्रि० विशेषेण दल्यते दल—घञर्थे क । १ द्विधाभूते २ दाडिमकल्के ३ वंशादिपात्रे ४ स्वर्णादेरवयवे च न० । ५ कलायादौ न० अमरभरतौ ६ रक्तकाञ्चने ७ पिष्टके न० शब्दच० । ८ त्रिवृति (तेओडि) स्त्री राजनि० । प्रा० ब० । ९ दलशून्ये त्रि० ।


शब्दकल्पद्रुमः

विदलं || क्ली (विघट्टितं दलं यस्य ।)
द्बिधाकृत- कलायादि । दालि इति भाषा । स्वर्णादेरव- यवः । दाडिमकल्कः । वंशादिकृतपात्रविशेषः । इति क्लीवलिङ्गसंग्रहे अमरभरतौ ॥


शब्दकल्पद्रुमः

विदलः || पुं, (विघट्टितानि दलानि यस्य ।)
रक्त- काञ्चनः । इति शब्दरत्नावली ॥ पिष्टकः । इति शब्दचन्द्रिका ॥



Correction: