शब्दकल्पद्रुमः
विदला || स्त्री (विघट्टितानि दलानि यस्याः ।) त्रिवृत् । इति राजनिर्घण्टः ॥ पत्रशून्या । यथा, “विशीर्णा विदला ह्रस्वा वक्रा स्थूला द्बिधा- कृता । कृमिदष्टा च दीर्घा च समिधो नैव कारयेत् ॥” इति तन्त्रम् ॥