वाचस्पत्यम्
विदारण || न० वि + दॄ णिच्—भावादौ ल्युट् । १ भेदने २ विडम्बे च मेदि० । ३ मारणे शब्दर० । ४ युद्धे पुंस्त्री० मेदि० । ५ कर्णिकारवृक्षे पु० शब्दच० ।
शब्दकल्पद्रुमः
विदारणं || क्ली (वि + दॄ + णिच् + भावे ल्युट् ।)
विडम्बः । भेदः । इति मेदिनी । णे, १०७ ॥ (यथा, हरिवंशे । ९५ । ७९ । “आयुधावाप्तिरत्रैव वपुषो वैष्णवस्य च । लक्ष्म्याश्च तेजसश्चैव व्यूहानाञ्च विदारणम् ॥”)
मारणम् । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
विदारणः || पुं, (विदार्य्यतेऽसौ इति । वि + दॄ + णिच् + कर्म्मणि ल्युट् ।)
कर्णिकारवृक्षः । इति शब्दचन्द्रिका ॥
शब्दकल्पद्रुमः
विदारणः || पुं, स्त्री, (विदार्य्यन्ते शत्रवोऽस्मिन्निति । वि + दॄ + णिच् + ल्युट् ।)
युद्धम् । इति मेदिनी । णे, १०७ ॥ (विदारयतीति । वि + दॄ + णिच् + ल्युः । विदारके, त्रि । यथा, मार्क- ण्डेये । २० । २ । “तस्यात्मजो महावीर्य्यो बभूवारिविदारणः ॥”)