संस्कृत-शब्दकोशः

विदेह विदेहा

विदेहकैवल्य

वाचस्पत्यम्

विदेहकैवल्य ||‍ न० कर्म० । “न तस्य प्राणा ह्युत्क्रामन्ति इहैव समवलीयन्ते” श्रुत्युक्ते जीवन्मुक्तस्य देहपत- नान्तरं निर्वाणमोक्षे । विदेहकैवल्यनिष्पत्तिप्रकारादि शा० सू० भाष्ययोरुक्त यथा “भोगेन त्वितरे क्षपयित्वा सम्पद्यते” सू० । अना- रब्धाकार्य्ययोः पुण्यपापयोर्विद्यासामर्थ्यात् क्षय उक्तः इतरे त्वारब्धकार्य्ये पुण्यपापे उपभोगेन शपययित्वा ब्रह्म सम्पद्यते “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पतस्ये” इति । “ब्रह्मैव सन् ब्रह्माप्येति” इति चैव- मादिश्रुतिभ्यः । ननु सत्यपि सम्यगदर्शने यथा प्राग देहपाताद् भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृतमेव पश्चादप्यनुवर्त्तेत न, निमित्ताभावात् उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तं न च तादृशमस्ति किञ्चित् का रणम् । नन्वपरः कर्माशयोऽभिनवमुपभोगमारपूस्यते न० तस्य दग्धवीजत्वात् । मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपाते उपभोगान्तरमारभते तच्च मिथ्याज्ञाने सम्यग्- दर्शनेन दग्धमिति साध्वेतत् आरब्धकार्य्यक्षये विदुषः कैवल्यम” भा० । तत्रैव ४ पादे च सू० भाष्ययोरुक्तं यथा “सम्पद्याविर्भवः स्वेनशब्दात्” सू० “एवमेवैष संप्रसादोऽ- आद्देहात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणा- भिनिष्पद्यते” श्रुतिर्विषयवाक्यं तत्र पूर्वपक्षं दर्शयित्वा सि- द्धान्तितं भाष्यकृता यथा “केवलेनैवात्मनाविर्भवति न धर्मान्तरेणेति कुतः? स्वेन रूपेणाभिनिष्पद्यते इति स्वश- ब्दात्” भा० । “मुक्तः प्रतिज्ञानात्” सू० । “योऽत्राभिनिष्पद्यते इत्युक्तः स पूर्वबन्धविनिर्मुक्तः शुद्धेनैवात्मनावविष्ठते” कुतः? प्रतिज्ञानात् । “एतं त्वेव ते भूयोऽनुव्याख्यास्यामः” इति प्रतिज्ञातम् “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” इति चोर्पन्यस्य स्वेनरूपेणाभिनिष्पद्यते स उत्तमः पुरुषः” इति (श्रुतिः) भा० । “अविभागेन दृष्टत्वात् सू० । “अवि- भक्त एव परणात्मना युक्तोऽभिनिष्पद्यते कुतः? दृष्टत्वात्” “यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति” एवं मुने- र्विजानतः आत्मा भवति गौतम!” इत्येवमादीनि मुक्त- स्वरूपनिरूपणपराणि वाक्यान्यविभागमेव दर्शयन्ति नदीसमुद्रादिनिदर्शनानि च” भा० । विवेकचू० स्पष्टमुक्तं यथा “पाषाणवृक्षतृणधान्यकटाम्बराद्या दग्धा भवन्ति हि मृदेव यथा तथैव । देहेन्द्रियासुमनआदिसमस्त दृश्यम् ज्ञानाग्निदग्धमुपयाति परात्मभावम् । विलक्षणं यथा ध्वान्तं लीयते मानुतेजसि । तथैव सकर्ल दृश्यं प्रज्ञात्मनि विलीयते । षटे नष्टे तथा व्योष व्योमैव भवति स्फुटम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मवत् स्वयम् । क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले । संयुक्त- मेकतां याति तथात्मन्यात्मविन्मुनिः । एवं विदेह- कैवल्यं सन्मात्रत्वमखण्डितम् । ब्रह्मभावं प्रपद्यैव यतिर्नावर्त्तते पुनः । सदात्मकत्वविज्ञानदन्पाऽविद्यादि- वर्द्मण । अमुष्य ब्रह्मभूतत्वात् ब्रह्मणः कुत उद्भवः” । “विमुक्तश्च विमुच्यते” न तस्य प्राणाह्युत्क्रामन्ति इहैव समबलीयन्ते” इत्याद्या श्रुतश्चात्र प्रमाणम् ।



Correction: