वाचस्पत्यम्
विदेह || पु० विगतो देहः देहसम्बन्धो यस्य । १ जनकाख्ये नृपे “असमाप्ते ततो यज्ञे वशिष्ठश्चागमद्दिवः । तं दृष्टा कु- पितः प्राह प्रत्याख्यातोऽस्मि पार्थिव! । यस्मात् तस्मात् शपेयं त्वां विदेहस्त्व भविष्यसि” वह्निपु० । तदीये २ जनपदे च स च देशः मिथिकादेश इति ख्यातः । कूर्मविभागे वृ० स० १४ उक्तः । कूर्मविभागशब्दे दृश्यम् । २ तद्वं श्येनृप ब० व० च ३ कैवल्यमुक्तियुते ४ दहसम्बन्धसून्ये च त्रि० ४ मिथिलायां स्त्री हेमच० । ५ देहशून्ये देवे पात० सूत्रभाष्यादौ देवस्य विदेहत्वं समर्थितं यथा भवप्रत्ययो विदेहप्रकृतिलयानाम्” सू० । “स खल्वयं द्विविध उपायप्रत्ययो भवप्रत्ययश्च तत्रोपाय प्रत्ययो योगिनां भवति” भवप्रत्ययो विदेहप्रकृतिलया- नाम्” विदेहानां देवानां भवप्रत्ययः ते हि स्वसंस्कारमा- त्रोपयो(भो)गेन चित्तेन कैवल्यपदमनुभवन्तः स्वसंस्कार- विपाकं तथाजातीयकमतिवाहयन्ति” भाष्यम् । “भवन्ति जायन्तेऽस्यां जन्तव इति भवोऽविद्या स खल्वयं भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः । तत्र तयोर्मध्ये उपायप्रत्ययो योगिनां मोक्षमाणानां भवति विशेषविधानेन शेषस्य मुमुक्षुसम्बन्धं निषेधति । केषां तर्हि भवप्रत्ययः । इत्यत्र सूत्रेणोत्तरम् । विदे- हाश्च प्रकृतिलयाश्च तेषामित्यर्थः । तद् व्याचष्टे विदे- हानां देवानां भवपत्ययः भूतेन्द्रियाणामन्यतममात्मत्वेन प्रतिपन्नानामुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कार- मात्रावशेषतया षाट्कौषिकशरीररहिताः विदेहाः ते हि संस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानु- भवन्तः प्राप्नुवन्तः विदेहाः । अवृत्तिकत्वञ्च कैवल्येन सारूप्यम् । स्वाधिकारसंस्कारशेषता च वैरूप्यम् । संस्कारमात्रोपभोगेणेति क्वचित् पाठः तस्यार्थः संस्कार- मात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः । प्राप्ता- वधयः संस्कारविपाकं तथाजातीयकमतिवाहयन्ति अतिक्रामन्ति पुनरपि संस्कारे विशन्ति तथा च वायु प्रोक्तं “दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णम्” विवरणम् । तेषां देवागां मध्ये यस्य विवेकसाक्षात्कारस्तस्य कैवल्यप्राप्तिः “योयो दे- वानां प्रत्यबुध्यत स विमुच्यते” इति श्रुतेः । मीमांसा- सिद्धे देहशून्ये ५ अचेतने मन्त्रात्मके देवे च । अवि- ग्रहशब्दे ४५१ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
विदेहः || पुं, जनकान्वयभूमिपः । (यथा, देवी- भागवते । १ । १६ । ५२ । “द्रष्ट्रुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम् । कथं तिष्ठदि संसारे पद्मपत्रमिवाम्भसि ॥” विगतो देहो यस्या ।)
कायशून्ये, त्रि । इति मेदिनी । ले, १४ ॥ (यथा, महाभारते । ३ । १०७ । २६ ॥ “छिन्नशीर्षा विदेहाश्च भिन्नत्वगस्थिसन्धयः । प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ॥”)
निमिराजस्य विदेहत्वकारणम् । यथा, —
“असमाप्ते ततो यज्ञे वशिष्ठश्चागमद्दिवः । तं दृष्ट्वा कुपितः प्राह प्रत्याख्यातोऽस्मि पार्थिव । यस्मात्तस्मात् शपेयं त्वां विदेहस्त्वं भविष्यसि ॥” इति वह्रिपुराणे सूर्य्यवंशसमाप्ताध्यायः ॥