वाचस्पत्यम्
विद्ध || त्रि० व्यध० क्त । १ छिद्रिते अमरः । २ क्षिप्ते ३ सदृशे ४ या धिते मेदि० ५ ताडिते च ।
शब्दकल्पद्रुमः
विद्धः || त्रि (विध्यते स्मति । व्यध + क्तः ।)
छिद्रितः । इत्यमरः ॥ क्षिप्तः । सदृशः । वाधितः । इति मेदिनी । धे, १६ ॥ (यथा, मार्कण्डेये । ५० । ७० । “तरुगुल्मादिभिर्द्वारं न विद्धं यस्य वेश्मनः । मर्म्मभेदोऽथवा पुंसस्तत् श्रेयो भवनं न ते ॥”)
ताडितः । इत्यजयपालः ॥ (यथा, विष्णुसंहि- तायाम् । २० । ४४ । “नाकाले म्रियते कश्चित् विद्धः शरशतरपि । कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥”)